केशवाष्टकम् Keshavashtakam
नवप्रियकमञ्जरीरचितकर्णपूरश्रियं
विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम् ।
दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत्
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥
१॥
पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे
मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये ।
इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥
२॥
घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला
विलासनिलयान् मिलद्विविधवेशविद्योतिनः ।
सखीन् अखिलसारया पथिषु हासयन्तं गिरा
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥
३॥
श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं
समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम् ।
उदञ्चदलिमण्डलीद्युतिविडम्बिवक्रालकं
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥
४॥